रामायणसूक्तयः (पुरुषार्थः)
१. दैवं पुरुषकारेण यः समर्थः प्रबाधितम् ।
- न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ (अयोध्याकाण्डः २३/१७)
२. न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।
- एवमेव नरव्याघ्रः परलीढं न मंस्यते ॥ (अयोध्याकाण्डः १०७/१२)
३. विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।
- वीराः सम्भावितात्मानो न अदैवं पर्युपासते ॥ (अयोध्याकाण्डः २३/१६)
४. सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति ।
- कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥ (युद्धकाण्डः ११५/१६)