रामायणसूक्तयः (प्रीतिः)

१. अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा । (बालकाण्डः ७७/२८)

२. गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते । (बालकाण्डः ७७/२७)

३. दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः । (सुन्दरकाण्डः २६/४१)

४. प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत् ।

ताभ्यं हि ते वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ (सुन्दरकाण्डः १६/४८)