रामायणसूक्तयः (भृत्यः)

१. नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः ।

भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ (युद्धकाण्डः १/९)

२. ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ।

यथा सर्वं सुविहितं न किञ्चित् परिहीयते ॥ (बालकाण्डः १३/१६)

३. यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।

भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥ (युद्धकाण्डः १/८)

४. यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।

कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ (युद्धकाण्डः १/७)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(भृत्यः)&oldid=3022" इत्यस्माद् प्रतिप्राप्तम्