रामायणसूक्तयः (भ्राता)
१. अयं स समरश्लाघी भ्राता मे शुभलक्षणा ।
- यदि पञ्चात्वमापन्नः प्राणैर्मे किं सुखेन वा ॥ (युद्धकाण्डः १०१/५)
२. उत्तरं न हि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
- अधर्मसहितं चैव परलोकविवर्जितम् ॥ (उत्तरकाण्डः ६३/६)
३. देशे-देशे कलत्राणि देशे-देशे च बान्धवाः ।
- तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ (युद्धकाण्डः १०१/१५)
४. पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः । (अयोध्याकाण्डः ६२/३३)