रामायणसूक्तयः (मन्त्रः)

१. अन्योन्यमनिमास्थाय यत्र सम्प्रति भाष्यते ।

न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते। (युद्धकाण्डः ६/१४)

२. ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।

मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ (युद्धकाण्डः ६/१२)

३. एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते नमः ।

एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ (युद्धकाण्डः ६/९)

४. गुणदोषौ न निश्चित्य त्यक्त्वा दैवव्यपाश्रयम् ।

करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः ॥ (युद्धकाण्डः ६/१०)

५. बह्नीरपि मतीर्गत्वा मन्त्रिणामर्थनिर्णयः ।

पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥ (युद्धकाण्डः ६/१३)

६. मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः । (युद्धकाण्डः ६/५)

७. यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ।

एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः ॥ (युद्धकाण्डः ६/११)