रामायणसूक्तयः (मानवजीवनस्य असमर्थता)
१. क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।
- विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ (उत्तरकाण्डः २०/११)
२. नहि कश्चिन्मया दृष्टो बलवानपि जीवति । (उत्तरकाण्डः २२/३०)
३. नित्यं श्रेयसि सम्मूढं महद्द्भिर्व्यसनैर्वृतम् ।
- हन्यात् कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ (उत्तरकाण्डः २०/९)
४. माता-पितृसुतस्नेहभार्याबन्धुमनोरमैः ।
- मोहितोऽयं जनो ध्वस्तः क्लेशः स्वं नावबुध्यते ॥ (उत्तरकाण्डः २०/१४)
५. हत एव ह्ययं लोको यदा मृत्युवशं गतः । (उत्तरकाण्डः २०/७)