रामायणसूक्तयः (मृत्युः)
१. उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ।
- निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ (अरण्यकाण्डः २४/९)
२. ध्रुवं ह्यकाले मरणं न विद्यते । (अयोध्याकाण्डः २०/५१)
३. नास्ति सर्वामरत्वं हि कस्यचित् प्राणिनो भुवि । (उत्तरकाण्डः ३०/९)
४. परान्तकाले हि गतायुषो नरा ।
- हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ (युद्धकाण्डः१६/२६)
५. भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् । (उत्तरकाण्डः ३०/१६)
६. लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।
- अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ (सुन्दरकाण्डः २५/१२)
७. सत्यं बतेदं प्रवदन्ति लोके,
- नाकालमृत्युर्भवतीति सन्तः । (सुन्दरकाण्डः २८/३)
८. सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः । (युद्धकाण्डः१११/२९)
९. सहैव म्रुत्युर्व्रजति सह मृत्युर्निषीदति ।
- गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ (अयोध्याकाण्डः १०५/२२)