रामायणसूक्तयः (राजा)
१. अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर । (बालकाण्डः ६१/७)
२. अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन ।
- राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी ॥ (अयोध्याकाण्डः ६७/३६)
३. पिता हि सर्वभूतानां राजा भवति धर्मतः । (उत्तरकाण्डः ९३/१५)
४. बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च । (बालकाण्डः ५४/११)
५. यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते ।
- तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥ (अयोध्याकाण्डः ६७/३३)
६. रत्नहारी च पार्थिवः । (बालकाण्डः ५३/९)
७. राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।
- धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ (अरण्यकाण्डः ५०/११)
८. राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
- राजा माता पिता चैव राजा हितकरो नृणाम् ॥ (अयोध्याकाण्डः ६७/३४)
९. विद्यास्वभिविनीतो यो राजा राजन् नयानुगः ।
- स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ (युद्धकाण्डः ३५/७)
१०. सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।
- कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ (किष्किन्धाकाण्डः ३४/७)