रामायणसूक्तयः (राज्ये अराजकतया हानिः)
१. अराजके धनं नास्ति नास्ति भार्याप्यराजके । (अयोध्याकाण्डः ६७/११)
२. नाराजके जनपदे धनवन्तः सुरक्षिताः ।
- शेरते वितद्वाराः कृषिगोरक्षजीविनः ॥ (अयोध्याकाण्डः ६७/१८)
३. नाराजके जनपदे स्वकं भवति कस्यचित् ।
- मत्स्या इव जना नित्यं भक्षयन्ति परस्परम् ॥ (अयोध्याकाण्डः ६७/३१)
४. नाराजके पितुः पुत्रो भार्या वा वर्तते वशे । (अयोध्याकाण्डः ६७/१०)
५. यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।
- अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ (अयोध्याकाण्डः ६७/२९)