रामायणसूक्तयः (रामायणस्य महत्त्वम्)

१. आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।

यः शृणोति सदा भक्त्या स गच्छेद् वैष्णवीतनुम् ॥ (उत्तरकाण्डः १११/१६)

२. इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।

रामायणं वेदसमं श्राद्धेषु श्रावयेद् बुधः ॥ (उत्तरकाण्डः १११/४)

३. पठत्येकमपि श्लोकं पापात् स परिमुच्यते । (उत्तरकाण्डः १११/६)

४. यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।

सोऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ (उत्तरकाण्डः १११/२१)

५. यः पठेच्छृणुयान्नित्यं चरितं राघवस्य हि ।

भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ (उत्तरकाण्डः १११/१९)

६. श्रृण्वन् रामायणं भक्त्या यः पादं पदमेव वा ।

स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ (उत्तरकाण्डः १११/२४)