रामायणसूक्तयः (वनस्य दोषः)
१. अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः ।
- भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ (अयोध्याकाण्डः २८/१८)
२. उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि ।
- जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥ (अयोध्याकाण्डः २८/१३)
३. कायक्लेशाश्च बहवो भयानि विविधानि च ।
- अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ (अयोध्याकाण्डः २८/२३)
४. द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि ।
- वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् ॥ (अयोध्याकाण्डः २८/२२)
५. पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।
- बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् । (अयोध्याकाण्डः २८/२१)
६. बहुदोषं हि कान्तारं वनमित्यभिधीयते । (अयोध्याकाण्डः २८/५)
७. सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः ।
- मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ (अयोध्याकाण्डः २८/९)
८. सदा सुखं न जानामि दुःखमेव सदा वनम् । (अयोध्याकाण्डः २८/६)