रामायणसूक्तयः (वायुः)
१. अशरीरः शरीरेषु वायुश्चरति पालयन् ।
- शरीरं हि विना वायुं समतां याति दारुभिः ॥ (उत्तरकाण्डः ३५/६०)
२. वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
- वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ (उत्तरकाण्डः ३५/६१)
१. अशरीरः शरीरेषु वायुश्चरति पालयन् ।
२. वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।