रामायणसूक्तयः (साधुः)
१. धर्मे रताः सत्पुरुषैः समेता -
- स्तेजस्विनो दानगुणप्रधानाः ।
- अहिंसका वीतमलाश्च लोके
- भवन्ति पूज्या मुनयः प्रधानाः ॥ (अयोध्याकाण्डः १०९/३६)
२. न परः पापमादत्ते परेषां पापकर्मणाम् ।
- समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ (युद्धकाण्डः ११३/४४)
३. पापानां वा शुभानां वा वधार्हाणामथापि वा ।
- कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ (युद्धकाण्डः ११३/४५)
४. सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । (अरण्यकाण्डः ६८/२४)