रामायणसूक्तयः (स्वजनस्य श्रेष्ठता)
१. गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा ।
- निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥ (युद्धकाण्डः ८७/१५)
२. यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
- स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते ॥ (युद्धकाण्डः ८७/१३)