रामायणसूक्तयः (हनुमतः गुणाः)

१. न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।

कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ (उत्तरकाण्डः ३५/८)

२. शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।

विक्रमश्च प्रभावश्च हनूमति कृतालया ॥ (उत्तरकाण्डः ३५/३)

३. सत्यमेतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमति ।

न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ (उत्तरकाण्डः ३५/१५)