राष्ट्रं सुवीरं वर्धयामि ॥

राष्ट्रं सुवीरं वर्धयामि ॥ (अथर्ववेदः ३-१९-५) सम्पाद्यताम्

राष्ट्रं सबलं वर्धयामि ।

वयं सर्वे अस्माकं कुटुम्बस्य, अधिकं नाम बन्धुमित्राणां हितम् आशास्महे । एतत् अतिरिच्य कश्चन समाजः, किञ्चन राष्ट्रं, संविधानञ्च विद्यते इत्येतम् अंशम् चातुर्येण विस्मरामः । अस्माकं समाज-राष्ट्र-संविधानानाञ्च मध्ये कश्चन अविनाभावसम्बन्धः वर्तते इत्येतत् अस्माभिः विस्मर्यते । अस्माकं दीर्घकालीनं हितं समाज-राष्ट्र्योः सुव्यवस्थया सह, दृढतया सह च संयुक्तमस्ति । समाज-राष्ट्रयोः शान्तिः यदि न स्यात् तर्हि अस्माकं कुटुम्बस्य बन्धुमित्राणाञ्च शान्ति-समाधानादीनि न भविष्यति । अतः अस्माकं श्रेयसः साधनेन सह समाजस्य राष्ट्रस्य च अभिवृद्धै अपि प्रयासः अस्माभिः अवश्यं कर्तव्यः । जगति विद्यमानानाम् अरण्य-वायु-भूमि-जल-खनिजादीनां प्राकृतिकसम्पत्तीनां सदुपयोगः, रक्षणञ्च अस्माभिः करणीयम् । परिसरमालिन्यं दुरुपयोगश्च कदापि न कर्तव्यः । प्राकृतिकसम्पत्तेः वर्धनकार्येषु प्रतिफलापेक्षां विना आत्मा योजनीयः ।
(अत्र राष्ट्रं नाम मनुष्यैः सीमारेखादिभिः अभिज्ञाताः देशाः नैव ! सर्वस्य देशस्य प्रत्येकं सामाजिकव्यवस्था संविधानादयः न ! समग्रं जगत् एव अखण्डं राष्ट्रम् । सर्वेषां मानवानां हितकारकः स्वस्थः सुव्यवस्थितश्च समाजः, तादृशस्य समाजस्य जातिमत-उच्चनीच-महिलापुरुषभेदं विना मार्गदर्शने समर्थाः वेदाः एव समग्रस्य मनुकुलस्य संविधानम् ।)