जलाल् आल्-दीन् मुहम्मद् रूमि अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः । इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।

अमृतवचनानि

सम्पाद्यताम्
 
 
भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
 
देवः एकस्मात् भावात् अन्यत्र नयति वैरुद्ध्येन पाठयति, येन भवतः उड्डयनाय पक्षद्वयं वर्तते न केवलम् एकम् ।
 
येन आदरः प्रदर्श्यते तेन आदरः प्राप्यते ।
 
सहचरत्वेन मत्सरं यः न नयति सः एव भाग्यवान् ।
  • प्रीतिः सज्जनानां कृते नियुक्ता नौका ।
    अपायात् रक्षति, पलायनाय मार्गं कल्पयति च ।
    भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।
    वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
    • पुस्तकम् - The Masnavi, Book IV, Story II, as translated in Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí (1898) by Edward Henry Whinfield
  • राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
    • उद्धृतम् - The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
  • स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
    • उद्धृतम् -The Sufi Path of Love : The Spiritual Teachings of Rumi (1983) by William C. Chittick, p. 162
  • एहि, एहि त्वं यःकोऽपि
    आटको वा, पूजकः, त्यागाकांक्षी वा भवतु नाम, न कापि चिन्ता ।
    विषादसार्थः नास्माकम् ।
    शताधिकवारं त्वया प्रतिज्ञाभङ्गः कृतः चेदपि चिन्ता नास्ति, एहि, एहि पुनः एहि ।
    • As quoted in Sunbeams : A Book of Quotations (1990) by Sy Safransky, p. 67
  • प्रत्येकः अपि विशिष्टाय कार्याय प्राप्तजन्मा अस्ति । तद्कार्यस्य सम्पादनेच्छा सर्वस्मिन् हृदये निहिता अस्ति ।
    • उद्धृतम् - Marry Your Muse : Making a Lasting Commitment to Your Creativity (1997) by Jan Phillips, p. 75
  • प्रमुदितोऽहम्... नितराम्, अस्मिन् जगति स्थितिः अशक्या ;
    किन्तु आत्मा इव, जगतः नेत्रेभ्यः गोपितोऽहम् ।
    तरुमूलं भूमौ बद्धं यदि न स्यात्, तर्हि ते माम् असारयिष्यन् ;
    यतः सम्फुल्लोहमस्मि ईर्ष्यावहः उपवनस्य ।
    • Divan 1740:1-3, as अनुवादः - Fatemeh Keshavarz in Reading Mystical Lyric : The Case of Jalal al-Din Rumi (1998)
  • यस्य आशां बुद्धिः पराभवति सः देवतान् अतिशेते; यस्य आशा बुद्धिम् अतिशेते सः पशोः अपि कनीयान् ।
    • उद्धृतम् - The Rumi Collection : An Anthology of Translations of Mevlana Jalaluddin Rumi (2000) by Kabir Helminski
  • दोषः तस्मिन् विद्यते यः निन्दति । आत्मा निन्दनाय न किमपि पश्यति ।
    • उद्धृतम् - Rumi Wisdom: Daily Teachings from the Great Sufi Master (2000) by Timothy Freke
  • तव प्रेमपात्रस्य शोभा तव कार्ये अभिव्यक्ता भवतु ।
    • उद्धृतम् - Path for Greatness : Spiritualty at Work (2000) by Linda J. Ferguson, p. 51

रूमि डेलैट् १९९०

सम्पाद्यताम्
Rumi Daylight: A Daybook of Spiritual Guidance (1990) translations by Camille Adams Helminsk and Kabir Helminski
  • देवः एकस्मात् भावात् अन्यत्र नयति वैरुद्ध्येन पाठयति, येन भवतः उड्डयनाय पक्षद्वयं वर्तते न केवलम् एकम् ।
  • सहचरत्वेन मत्सरं यः न नयति सः एव भाग्यवान् ।
  • दयां यदि इच्छेत्, तर्हि दुर्बलान् दयया दृश्यताम् ।
  • अन्यस्य पतनाय गर्तं यदि निर्माति,
    तस्मिन् भवतः पतनं निश्चितम् ।
  • भवता अन्येषु दृश्यमानाः बहवः दोषाः, प्रिय वाचक,
    तेषु प्रतिफलिताः भवतः स्वभावाः एव ।
  • येन आदरः प्रदर्श्यते तेन आदरः प्राप्यते ।
  • दृष्टियुताः पुरुषाः यदि न स्युः,
    तर्हि सर्वे अन्धाः मृताः स्युः ।
"https://sa.wikiquote.org/w/index.php?title=रूमि&oldid=16838" इत्यस्माद् प्रतिप्राप्तम्