लभेत सिकतासु तैलमपि यत्नत: पीडयन् …

लभेत सिकतासु तैलमपि यत्नत: पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दित:।
कदाचिदपि पर्यटन् शशविषाणमासादयेत्। न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥