लशुनभक्षणं निषिद्धमिति कथ्यते । रोगनिवारणार्थं केनचिद् रुग्णेन लशुनं भक्षितं चेदपि रोगोपशमनं न जातं चेत् निषेध –उल्लङ्घनस्य पापमात्रम् एव फलं भवति खलु । एवं कस्यचित् नियमस्य उल्लङ्घनेनापि फलं न प्राप्तं – इति बोधयितुम् अस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=लशुनभक्षणन्यायः&oldid=10996" इत्यस्माद् प्रतिप्राप्तम्