लाक्षारसावसिक्त – कार्पासबीजन्यायः

कार्पासबीजानि लाक्षारसेन अवसिक्तानि कृत्वा अनन्तरम् उप्यन्ते चेत् अग्रे उत्पत्स्यमानः कार्पास अपिः रक्तः भवति एवं कर्मणां याः वासनाः भवन्ति तासां बलेन मनुष्यस्य प्रवृत्तिः तादृशी एव भवति इति भावः । यथा - <poem> यस्मिन्नेव सन्ताने ह्याहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा । -सर्वदर्शनसंग्रहे आर्हतदर्शने (सा. ७००)