लाङ्गलम् इति क्षेत्रिकाणां जीवनम् एव । यतः तत् विना क्षेत्रकर्म एव न भवति । एवं यत्र साध्यसाधनयोः कार्यकारणयोः च तादात्म्यं अभिप्रेतं भवति तत्र अस्य न्यायस्य प्रयोगः भवति । यथाः १) आयुः प्पृतम् (इत्यत्र आयुः साध्यं प्पृतं च कारणम् तथापि अनयोः तादात्म्यं पूर्णतः अभिप्रेतम् अस्ति ) २ यथोक्तविद्याबोधित्वाद् ग्रन्थोऽपि तदभेदतः भवेदुपनिषन्नाम्ना लाङ्गलजीवनं यथा । सुरेशवराचार्यवार्तिके पृष्ठे १)

"https://sa.wikiquote.org/w/index.php?title=लाङ्गल्_जीवनन्यायः&oldid=11000" इत्यस्माद् प्रतिप्राप्तम्