१. लूतायाः शरीरात् विशिष्टतन्तुनिर्माणं भवति । तैः तन्तुभिः लूता जालं निर्माति स्वयं च जालात् पृथगपि स्थातुं शक्नोति । एवं परमेश्वरः स्वस्मात् जगत् निमार्य अन्ते तस्य लयं स्वस्मिन् करोति । २. लूता जालस्य निमित्तकारणं च भवति । तथैव ब्रह्म जगतः उपादानकारणं निमित्तकारणं च भवति । मायासहितः जगत् निर्माति । एवं वेदान्ते अस्य उपयोगः क्रियते । (सा. ५०२)

"https://sa.wikiquote.org/w/index.php?title=लूतातन्तुन्यायः&oldid=11004" इत्यस्माद् प्रतिप्राप्तम्