लोष्टं नाम मृत्पिण्डम् । प्रस्तराः नाम शिलापिण्डम् । तयोः भारः कियान् कस्य वा अधिकः इति तदा एव ज्ञायते यदा ते हस्ते धार्येते । द्वयोः साम्ये अपि भारेण तयोः वैषम्यं ज्ञायते ।

	एवं समानयोः अपि गुणधर्माः भिन्नाः भवितुम् अर्हन्ति इति बोधयितुम् अस्य प्रयोगः क्रियते । (सा. ६७५)
"https://sa.wikiquote.org/w/index.php?title=लोष्टप्रस्तरन्यायः&oldid=11006" इत्यस्माद् प्रतिप्राप्तम्