स्वस्य प्रदेशे एव वर्तमानम् अपि लोहचुम्बकं लोहशकलान् आकर्षति । एतावदेव न तेषु लोहशकलेषु आकर्षणशक्तिम् अपि जनयति । एवं सांख्यदर्शनोक्तः पुरुषः बुद्धिं चोदयित्वा बुद्धिं चेतनायुक्ताम् इव करोति । वेदान्तशास्त्रेऽपि अस्य न्यायस्य प्रयोगः क्रियते । एवं स्वतः निष्क्रियम् अपि वस्तु अन्यद् वस्तु क्रियायुक्तं करोति इत्यर्थे अस्य न्यायस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=लोहचुम्बकन्यायः&oldid=11012" इत्यस्माद् प्रतिप्राप्तम्