कन्दुकन्यायः
(लौकिकन्यायकोशः(कन्दुकन्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
कियता अपि बलेन कन्दुकम् अधः दमयामः चेत् अपि कन्दुकः उपरि एव वेगेन आगच्छति । सः तस्य स्वभावः । तथैव सज्जनानां कियदपि दमनं कृतं चेदपि, तेषां नाशार्थं प्रयत्नः कृतः चेदपि तेषां दमनं न भवति । ते स्वकौशलेन प्रतिभया च यशः एव प्राप्नुवन्ति इति अस्य अर्थः । (सा.९९०)