कपित्थभङ्गन्यायः

(लौकिकन्यायकोशः(कपित्थभङ्गन्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)

कपित्थफलस्य भङ्गः नाम कपित्थं वर्तुलाकारं भवति तद् यदा भज्यते तदा अन्तः प्रायः रिक्तम् एव भवति अतः कपित्थभङ्गस्य अधिकं प्रयोजनं नास्ति इति । निराशा एव भवति इति कारणेन तत् तथा एव स्थापनीयम् यस्य विश्लेषणेन प्रयोजनं न भवति - इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । यथा मृच्छकटिके - <poem> जानन्नपि खलु जातिं तव न जानामि शीलविभवेन । तिष्ठतु ममैव मनसि किं कपित्थेन भग्नेन ॥६-२८ राजसेवकः चनरकः अपरं राजसेवकं वदति - तव जातिः का इति अहं जानामि परन्तु व्यर्थमेव तव अपमानः किमर्थम्? कपित्थभङ्गेन किम् ? तव नीचजातिः तथैव गुप्ता भवतु ।

"https://sa.wikiquote.org/w/index.php?title=कपित्थभङ्गन्यायः&oldid=9059" इत्यस्माद् प्रतिप्राप्तम्