कण्ठचामीकरन्यायः

(लौकिकन्यायकोषः(कण्ठचामीकरन्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)

चामीकरं नाम सुवर्णम् । तेन निर्मितम् आभरणम् अपि चामीकरमेव । कण्ठे सुवर्णस्य हारः इत्यपि तस्य अर्थः भवितुम् अर्हति । मूर्खः स्वस्य कण्ठे वर्तमानां सुवर्णहारं न जानाति तथैव मनुष्यः परमार्थतः ब्रह्मस्वरूपः सन्नपि अज्ञानेन भिन्नं मन्यते । केनापि गुरुणा तस्य बोधः करणीयः भवति । <poem> पश्यन्तु- प्रत्यगात्मतया तस्य प्राप्तत्वेऽपि च सर्वदा । कण्ठचामीकरन्यायात् तत्प्राप्तिरुपचर्यते ॥

"https://sa.wikiquote.org/w/index.php?title=कण्ठचामीकरन्यायः&oldid=15617" इत्यस्माद् प्रतिप्राप्तम्