सुभाषितम्

वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ उत्तररामचरितम्




तात्पर्यम्

स्वस्य विषये वज्रादपि कठोरम्, अन्येषां विषये कुसुमादपि मृदु मनः येषां पुरुषश्रेष्ठानां भवति तादृशानां मनसः अवगमने कः समर्थः ?

"https://sa.wikiquote.org/w/index.php?title=वज्रादपि_कठोराणि...&oldid=14991" इत्यस्माद् प्रतिप्राप्तम्