अत्यन्तलघुबीजात् अपि अतीव विशालः वटवृक्षः जायते । अत्यन्तस्थूलपदार्थः अपि अत्यन्तसूक्ष्मरुपेण स्वकारणे भवति उत्पत्तेः प्राक् इति भावः । संपूर्णस्य विश्वस्य इदमेव तात्त्विकं स्वरुपम् । अतीव सूक्ष्मस्य आत्मनः सर्वम् इदं जगत् अविर्भवति इति उपनिषदां सिद्धान्तः यथा – तं होवाच यं वै सोम्य एतम् अणिमानं न निभालयसे एतस्य वै सोम्य एषः अणिम्नः एव महान् न्यग्रोधः तिष्ठति श्रद्धत्स्व सोम्य इति । स य एष अणिमा ऎतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति ॥ छान्दोग्योपनिषद् ६-१२-२-३

"https://sa.wikiquote.org/w/index.php?title=वटबीजन्यायः&oldid=11020" इत्यस्माद् प्रतिप्राप्तम्