सुभाषितम्

वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषां केषां न ते वन्द्याः ॥




तात्पर्यम्

प्रसन्नं मुखं, करुणापूर्णं हृदयम्, अमृतसदृशानि वचनानि, परोपकारपरः व्यवहारः च येषां भवेत् ते केषां वन्द्याः न ?

"https://sa.wikiquote.org/w/index.php?title=वदनं_प्रसादसदनं...&oldid=14992" इत्यस्माद् प्रतिप्राप्तम्