व्याघ्रः सर्वेषां वन्यप्राणिनां सहसा वधं मा करोतु इति वन्यप्राणिनः व्याघ्रस्य रक्षणं कुर्वन्ति । वनं सुरक्षितं भवतु इति व्याघ्रः तेषां रक्षणं करोतु । एवं वनव्याघ्रयोः परस्परसहकार्यं भवति । तुल्यौ – वनसिंहन्यायः, ह्रदनक्रन्यायः यथा : १. सोऽयं वनसिंह- ह्रदनकन्यायः । किरातैः हन्तुं शक्योऽपि सिंहो महद्वनं शरणं प्रविश्य दुराधर्षः तेभ्यो न बिभेति वनं च तत्सिंहाधिष्ठानं अनुग्रहीतं तैः दुष्प्रवेशं भवति । वेदान्तकल्पतरुपरिमले पृष्ठ १०० ३. न स्याद् वनमृते व्याघ्रात् न स्युः व्याघ्राद् ऋते वनम्, वनं हि रक्ष्यते व्याघ्रेः व्याघ्रान् रक्षति काननम् । महाभारते उद्योगपर्वणि ३७-४२ (सा. ३९१)

"https://sa.wikiquote.org/w/index.php?title=वनव्याघ्रन्यायः&oldid=11032" इत्यस्माद् प्रतिप्राप्तम्