वने जाता वने त्यक्ता...
वने जाता वने त्यक्ता वने तिष्ठति नित्यशः ।
पण्यस्त्री न तु सा वेश्या यो जानाति स पण्डितः ॥
एषा अरण्ये जाता । किन्तु ततः दूरङ्गता सा जले सर्वदा स्थास्यति ।
धननिमित्तं स्वस्य विक्रयणं कुर्वती अपि सा वेश्या न । का एषा इति यः जानाति सः पण्डितः ।
उत्तरम्
नौका