वन्देsहं भारताम्बां...


वन्देsहं भारताम्बां जन्मदायिनीम् ।
वन्देsहं मातृभूमिं मोक्षदायिनीम् ॥

रत्नजलनिधिसंयुतां, प्राज्ञऋषिगणशोभिताम् ।
त्यागिमुनिवरभूषितां, चारुपर्वतराजिताम् ॥

पूतचरितै: शजितां, कविजनै: सङ्कीर्तिताम् ।
ज्ञानवृद्धै: चर्चिताम्, भावभक्तिसमर्चिताम् ॥

वीरसुतसन्तोषितां, महितचरितै: संसेविताम् ।
भक्तवृन्दैर्वन्दिताम्, साधुसद्भिर्भाविताम् ॥ वन्देsहम्..... ॥


- लक्ष्मीनारायण:


"https://sa.wikiquote.org/w/index.php?title=वन्देहं_भारताम्बां...&oldid=17632" इत्यस्माद् प्रतिप्राप्तम्