वन्दे भारतमातरम्...


वन्दे भारतमातरं वद, भारत ! वन्दे मातरम्
वन्दे मातरं, वन्दे मातरं, वन्दे मातरम् ॥

जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम्
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवताम्
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥

ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरता: ।
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मत: काम इह ।
नश्वरबुद्धि:* क्षणपरिवर्तिनि काये, आत्मन्यादरधी:
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥

मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलम्
नाहं कर्ता, कारयसि त्वं, नि:स्पृहता मम कर्मफले ।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादपले
नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ॠते ॥


- जनार्दन हेगडे


"https://sa.wikiquote.org/w/index.php?title=वन्दे_भारतमातरम्...&oldid=15382" इत्यस्माद् प्रतिप्राप्तम्