वन्दे सत्पुरुषान् लोके...

सुभाषितम्

वन्दे सत्पुरुषान् लोके गुणग्रहणतत्परान् ।
राजहंसानिव जलात् क्षीरग्रहणकोविदान् ॥




तात्पर्यम्

जलं क्षीरञ्च संयोज्य स्थापितं चेत् राजहंसाः क्षीरमात्रस्य स्वीकरणे यथा कुशलाः तथा सज्जनाः जनेषु गुणग्रहणे कुशलाः भवन्ति । तादृशान् अहं वन्दे ।