वयं भगवन्तः स्याम ॥ (अथर्ववेदः ९-१०-२०) सम्पाद्यताम्

वयम् ऐश्वर्यवन्तः भवाव ।

'वेदः वैराग्यं बोधयति, जीवनं नश्वरं, सर्वमपि परित्यज्यताम् इति वेदः कथयति' इति केन उक्तम् ? वयम् ऐश्वर्यवन्तः स्याम इति स्पष्टं घोषयति वेदः ! किन्तु वस्तुतः ऐश्वर्यं नाम किम् इत्येषः एव प्रमुखः प्रश्नः । सम्पादितं सर्वमपि न भवेत् ऐश्वर्यम् । यतः तेषां सम्पादनावसरे अनेकेषां हिंसा कृता स्यात्, सत्यस्य नाशः जातः स्यात्, चौर्यं भवितुम् अर्हेत् । जगतः उद्धाराय विद्यमानानि सत्य-अहिंसा-निष्कपटादीनि तत्त्वानि एव बलिरूपेण दत्तानि चेत् कुतः स्युः सुख-शान्ति-आरोग्यादयः ? प्रार्थितं चेदपि किं ते लभ्येरन् ?! ऐश्वर्यं केन मार्गेण सम्पादनीयम् इति बोधयति वेदः । सः कदापि सम्पत्तेः विरोधी नैव ! परिश्रमपूर्वकं प्राप्यताम् । परिश्रमानुगुणमेव प्राप्यताम् । द्यूतादिभिः कोशपूरणस्य, बलप्रयोगेण प्रभूतस्य प्राप्तेः प्रवृत्तिः मा भवतु । उत्तमेन मार्गेण सम्पाद्यते चेदेव ऐश्वर्यं सम्पत्तिः । अन्यथा तदेव विषायेत, विपत्तिरूपं प्राप्नुयात् ।
"https://sa.wikiquote.org/w/index.php?title=वयं_भगवन्तः_स्याम_॥&oldid=3173" इत्यस्माद् प्रतिप्राप्तम्