वयं स्याम पतयो रयीणाम् ॥

वयं स्याम पतयो रयीणाम् ॥ (यजुर्वेदः १९-४४)

सम्पाद्यताम्

वयं सम्पदः स्वामिनः भवेम ।

जनाः सामान्यतः चिन्तयन्ति यत् वेदाः वैराग्यमेव, पारलौकिकविषयमेव बोधयन्ति न तु दैनन्दिनजीवनविषयम् इति । इदं सत्यदूरं वचनम् इत्येतत् इयं सूक्तिः निरूपयति । अस्माकं जीवनाय सम्पत्तिः अत्यावश्यकी । सम्पद्युक्ताः स्वावलम्बिनः भवन्ति । स्वतन्त्राः भवन्ति । धर्माचरणं दासैः असाध्यम् । किन्तु वयं सम्पत्तेः दासाः न स्याम, स्वामिनः स्याम । सम्पत्तेः अर्जनाय यत्किमपि आचरितुं सिद्धाः इत्येतत् दासत्त्वद्योतकम् । सन्मार्गे एव चराम इत्येषः सङ्कल्पः सम्पत्तेः स्वामित्वप्राप्त्यै सहकारी । तदा एव सम्पत्तेः सद्विनियोगः शक्यः ।