वयं हिन्दुसञ्जाता: सर्वे...

वयं हिन्दुसञ्जाता: सर्वे...


वयं हिन्दुसञ्जाता: सर्वे, अस्माकं पुण्यम्

पावनराष्ट्रं, भावय श्रेष्ठम् ॥


जननमपि दुर्लभमत्र
दैवमपि सिद्ध्यति यत्र ।
कर्मफलापेक्षाहीना:
धर्मे निष्ठा: कर्ममुखेन ॥१॥


अस्मासु नास्ति च भेद:
अस्मासु नास्ति च वाद: ।
भिन्नमतम् एकीकृत्य
सङ्गच्छेमहि संवदेमहि ॥२॥


मम जननी भारतमाता
पुत्रोऽहं सेवाकर्ता ।
एवमेव कृत्वा भावम्

सत्यं वदाम चराम धर्मम् ॥३॥
- श्री नारायणभट्ट: