वह्नेर्यथा योनिगतस्य मूर्तिः...

वह्नेर्यथा योनिगतस्य मूर्तिः
न दृश्यते नैव च लिङ्गनाशः ।
स भूय एवेन्धनयोनिगृह्यः
तद्वोभयं वै प्रणवेन देहे ॥ - श्वेताश्वतरोपनिषत् १-१३

काष्ठे विद्यमानोऽपि अग्निः यथा न दृश्यते, अदृश्यमानत्वेन
हेतुना ‘नास्ति’ इति च यथा वक्तुं न शक्यते, मथनकाले तु
यथा आविर्भवति; एवमेव शरीरान्तः विद्यमानस्यैव आत्मनः
आविर्भावः प्रणवोपासनेन भवति ।

काष्ठे विद्यमानोऽपि अग्निः न बहिः दृश्यते, तावन्मात्रेणा
अग्निर्नास्ति’ इति वक्तुं शक्यते वा ? नैव । अव्यक्तरूपेण
विद्यमानस्यैव अग्नेः आविर्भावः मथनाद् भवति खलु ?

एवमेव विद्यमानस्यैव प्रत्यगात्मनः ज्ञापनमेव वेदान्तानां
विशेषः । न हि अविद्यमानम् आत्मानं वेदान्ताः प्रदर्शयेयुः,
न च साधकाः वयं पश्येम । किं तु स्वरूपभूतस्यैव प्रत्यगात्मनः
दर्शनाय ऒङ्कारोपासनं कर्तव्यम्, प्रणावोपासनेन हि प्रत्यगात्मनः
अनुभवो जायते । ओङ्कारध्यानस्य फलमिदम् ॥