वाचस्पतिः वाचं नः स्वदतु ॥

वाचस्पतिः वाचं नः स्वदतु ॥ (यजुर्वेदः ३०-१)

सम्पाद्यताम्

वाचस्पतिः अस्माकं वचनानि मधुराणि करोतु ।

परमात्मा एव अस्माकं सर्वेषां वचनानां स्वामी रक्षकश्च । अस्माकं विवेचनरहितस्य सम्भाषणस्य कारणतः अद्यत्वे बहूनि कुटुम्बानि नश्यन्ति, मनांसि छिन्नानि भवन्ति, वयमेव विपत्तिं स्वागतीकुर्मः । कथनात् पूर्वं - कथ्यमानं किं सत्यम् ? किम् एतत् अपेक्षितम् ? श्रोतॄणाम् इतः कः लाभः ? स च लाभः किं हितकरः ? कथनशैली मधुरं श्रवणयोग्यं वर्तते किम् ? इत्यादीन् अंशान् सम्यक् विविच्य कथनीयम् । वचनविषये अयम् एकः नियमः यदि समीचीनतया पाल्येत तर्हि जीवनस्य बह्व्यः समस्याः न उद्भवेयुः एव ! वचनं तु उक्तमस्ति, समस्याः तु जाताः सन्ति । अधुना किं कर्तव्यम् ? यत् सम्पन्नं तत्तु सम्पन्नमेव । इतः परं वा प्रीतेः पश्चात्तापस्य वचनैः तत् परिष्कर्तुं शक्यं खलु ?! अहङ्कारः अवरोधाय भवेत्, हताशभावः अनुभूयेत । किन्तु प्रीतिनिष्कपटादिभिः भावैः युक्तैः वचनैः प्राप्यमाणा मैत्री, निरातङ्कता भवति अमूल्या । तेन कालः श्रमः सम्पत्तिश्च सम्पादिता भवति इत्यस्य अवगमनेन अवरोधः निवारणीयः इति मनोभावः उत्पद्येत । सः भावः सर्वदा रक्षणीयश्च ।