वायुर्वाव संवर्गः………. अग्निः वायुमेवाप्येति, …………. सूर्यो वायुमेवाप्येति,
चन्द्रो वायुमेवाप्येति । - छान्दोग्योपनिषत् ४-३-१

वायुरेव संवर्गः, अग्निः वायुमेव अप्येति, सूर्यः वायुमेव अप्येति, चन्द्रः वायुमेव अप्येति ।

उपासनमेतत्, अस्य ‘संवर्गविद्या’ इति नाम । संवर्गो नाम संवर्जनम् । वायुर्नाम हिरण्यगर्भः
अथवा विराटपुरुषः । अस्मिन्नेव वायौ सर्वोऽपि प्रपञ्चः प्रविलीयते ॥

अग्निः, सूर्यः, चन्द्रः, नक्षत्राणि, इत्याद्याः सर्वा अपि देवताः प्रलयकाले इमं वायुमेव अपियन्ति ।
हिरण्यगर्भादेव जनित्वा, तस्मिन्नेव स्थित्वा, अन्ते तस्मिन्नेव इदं विश्वं लीयते च । अस्यैव वायुः
इति नाम । ‘संवर्गः’ इत्यपि अस्यैव नाम । वायुः, प्राणः विराटपुरुषः, वैश्वानरः इति नामान्तराणि
च । सर्वदेवतानामपि आत्मन्येव संवर्जनात् वायुः संवर्गः । एवम् उपासनं कुर्यात् । अस्य उपासनस्य
'वायुसंवर्गविद्या' इति नामधेयम् ॥

"https://sa.wikiquote.org/w/index.php?title=वायुर्वाव_संवर्गः...&oldid=16382" इत्यस्माद् प्रतिप्राप्तम्