चित्रकाव्यम्

वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधावरितारिका ॥


वैशिष्ट्यम्

श्लोकस्य पङ्क्तिः वामतः पठनेन दक्षिणतः पठनेन च समाना एव तिष्ठति ।


अर्थः

पर्वतवत् महदाकारयुतैः गजैः युक्तस्य अस्य सैन्यस्य सम्मुखीकरणम् अतीव क्लेशाय । इदं सैन्यं महत्तमं विद्यते, भीतानां जनानाम् आक्रन्दनं श्रूयते च । इदं शत्रून् समहरत् ।



"https://sa.wikiquote.org/w/index.php?title=वारणागगभीरा_सा...&oldid=14832" इत्यस्माद् प्रतिप्राप्तम्