चित्रकाव्यम्

वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥


वैशिष्ट्यम्

अयं श्लोकः व्युत्क्रमेण लिख्यते चेत् विभिन्नार्थयुक्तः अपरः श्लोकः भविष्यति ।


अर्थः

तदनन्तरं, महती सा सेना, या अरिगर्वनाशक्षमा, या नानुभूतापजया, सा बलशालिभिः मदगजैः सह उत्साहेन जयघोषं कुर्वद्भिः जनैः सह शत्रूणाम् अभिमुखं समचरत्।




व्युत्क्रमेण लिखितः श्लोकः


चित्रकाव्यम्

निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥


वैशिष्ट्यम्

अयं श्लोकः व्युत्क्रमेण लिख्यते चेत् विभिन्नार्थयुक्तः अपरः श्लोकः भविष्यति ।


अर्थः

द्युतिमानैः शब्दापमानैः वेगवद्भिः गजैः युक्ता, उद्घोषमाणैः रणरङ्गं सम्पूरयद्भिः जनैः युक्ता सा महती सेना धीरैः युते तस्मिन् रणरङ्गे सहसा क्रोधेन उग्रा जाता ।



"https://sa.wikiquote.org/w/index.php?title=वाहनाजनि_मानासे...&oldid=14847" इत्यस्माद् प्रतिप्राप्तम्