विकृतिं नैव गच्छन्ति...

सुभाषितम्

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।
आवेष्टितं महासर्पैः चन्दनं न विषायते ॥




तात्पर्यम्

सज्जनाः सहवसदोषेण मार्गभ्रष्टाः न भवन्ति । गन्धवृक्षं विषसर्पाः आवेष्टन्ते चेदपि चन्दनं विषयुतं न भवति ॥

"https://sa.wikiquote.org/w/index.php?title=विकृतिं_नैव_गच्छन्ति...&oldid=14996" इत्यस्माद् प्रतिप्राप्तम्