विक्रीते करिणि किमङ्कुशे विवाद – न्यायः ।

गजस्य विक्रयणाद् अनन्तरं तस्य अङ्कुशस्य कृते वादः किमर्थम् एवं महति व्यवहारे संपन्ने लघूनां कृते कलहः न कर्तव्य इति अनेन बोध्यते । यथा - <poem> १. सौमित्रिर्वदति विभीषणाय लङ्कां देहि त्वं भुवनपते विनैव कोशम् ।

  सौमित्रिं प्रति निजगाद रामचन्द्रो विक्रीते करिणि किमङ् कुशे विवादः ॥

२ नारब्धं कुचपरिरम्भणेषु वाम्यं वैमत्यं विरचयति चुम्बने कदापि ।

  किं नीवीगतमबले रुणत्सि पाणि विक्रीते करिणि किमङ्कुशे विवादः ॥

(सा. ७५०)