विजितात्मा विनीतात्मा...

सुभाषितम्

विजितात्मा विनीतात्मा प्रशान्तात्मा सुकीर्तिमान् ।
विशुद्धात्मा प्रसन्नात्मा परमात्मा हि मूर्तिमान् ॥




तात्पर्यम्

जितमनाः, विनयशीलः, शान्तमनाः, सम्पादितोत्तमकीर्तिः, शुद्धव्यवहारवान्, सदा हसन्मुखी च यः स्यात् सः साक्षात् देवः इव भवति ।