वित्ते त्यागः क्षमा शक्तौ...

सुभाषितम्

वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥




तात्पर्यम्

धनप्राप्ते दानं, सशक्तोऽपि क्षमादर्शनम्, आपत्तौ अपि दैन्यराहित्यं, सदाचारानुष्ठाने दम्भराहित्यञ्च सज्जनानां स्वभावः ।