सुभाषितम्

विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥




तात्पर्यम्

परप्रदेशेषु विद्या एव सम्पत्तिः । कष्टकाले बुद्धिः एव सम्पदः । परलोकसाधनाय धर्मः एव धनम् । शुद्धः व्यवहारः सर्वत्र अमूल्यं भवति ।

"https://sa.wikiquote.org/w/index.php?title=विदेशेषु_धनं_विद्या...&oldid=15000" इत्यस्माद् प्रतिप्राप्तम्