विद्याविनयसम्पन्ने...
सुभाषितम्
विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
भगवद्गीता ५-१८
vidyāvinayasampanne brāhmaṇe gavihastini ।
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥
पदच्छेदः
विद्याविनयसम्पन्ने, ब्राह्मणे, गविहस्तिनि, शुनि, च, एव, श्वपाके, च, पण्डिताः समदर्शिनः ॥
तात्पर्यम्
विद्याविनयसम्पन्नयुक्ते ब्राह्मणे, गजे, शुनके, चाण्डाले च पण्डिताः कमपि भेदं न गणयन्ति । (सर्वेषु आत्मानमेव पश्यन्ति)
आङ्ग्लार्थः
The truly learned, with the eyes of divine knowledge, see with equal vision a Brahmin, a cow, an elephant, a dog, and a dog-eater.