विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितम्।
शुश्रूषापि समाहितेन मनसा पित्रो: न सम्पादिता।
आलोलायतलोचना: प्रियतमा: स्वप्नेऽपि नालिङ्गिता:
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते॥

"https://sa.wikiquote.org/w/index.php?title=विद्या_नाधिगता_...&oldid=14454" इत्यस्माद् प्रतिप्राप्तम्